SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अष्टपञ्चाशत्तमोऽध्यायः । ४६५ प्रतिप्रहसमर्थश्च यः प्रतिप्रहं वर्जयेत् स दातृलोकमवाप्नोति । एघोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकांश्चाभ्युद्यतान्न निर्णदेत ॥ आहूयाभ्युद्यतां भिक्षां पुरस्त दनुचोदिताम् । ग्राह्यां प्रजापतिमैने अपि दुष्कृतकर्मणः ।। नाश्नन्ति पितरतस्य दशवर्षाणि पञ्च च । नच हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते । गुरुन् भृत्यानूजि होर्युरर्चिष्यन् पितृदेवताः। सर्वतः प्रतिगृह्णीयान्नतु तृप्येत् स्वयं ततः ॥ एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे । नादद्यात् कुलटाषण्डपतितेभ्यस्तथा द्विषः ।। गुरुषु त्वभ्यतीतेषु विना वा तेहे वसन् । आत्मनोवृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ।। अद्धिकः कुलमित्रश्च दासगोपालनापिताः । एते शूद्रेषु भोज्याना यश्चात्मानं निवेदयेत् ।। इति वैष्णवे धर्मशास्त्र सप्तपञ्चाशचमोऽध्यायः ।। ॥ अथ अष्टपञ्चाशत्तमोऽध्यायः ।। अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । शुल्कः शवलोऽसितश्चार्थः।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy