SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४६२ . विष्णुस्मृतिः। ॥ अथ पञ्चपञ्चाशत्तमोऽध्यायः ।। अथ रहस्यप्रायश्चित्तानि भवन्ति । स्रवन्तीमासाद्य स्नातः प्रत्यहं षोड़श प्राणायामान्कृत्वैककालं हविष्याशी मासेन पूतोब्रह्महा भवति । कर्मणोऽन्ते पयस्विनी गां दद्यात् । व्रतेनाघमर्षणेन च सुरापः पूनो भवति । गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ।। यथाश्वमेयः क्रतुराट् सर्वपापापनोदनः। तथाघमर्षणं सूक्तं सर्वपापपनोदनम् ।। प्राणायाम द्विजः कुर्यात् सर्वपापापनुत्तये । दह्यन्ते सर्वपापानि प्राणायामै द्विजस्य तु ॥ सव्याहृति सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।। अकारश्चाप्युकारश्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च ॥ त्रिभ्य एव च वेदेभ्यः पादं पादमदूदुहत् । तदित्यूचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ।। एतदक्षरमेताच जपन् व्याहृतिपूर्विकाम् । सन्ध्ययोर्वेदविदुषो वेदपुण्येन युज्यते ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy