________________
चतुःपञ्चाशत्तमोऽध्यायः। ४१ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्राह्मण्याञ्च परित्यक्तास्तेषामप्येतदादिशेत् ।। यद्गहितेनार्जयन्ति कमेगा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसा तथा ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । सातकत्रतलोपे च प्रायश्चितमभोजनम् ।। अवगूर्य्य चरेत् कृच्छमतिकृच्छ्रे निपातने । कृच्छातिकृच्छ् कुर्वीत विप्रस्योत्पाद्य शोणितम् । एनस्विभिरनिर्णिक्तैर्नार्थ कञ्चित् समाचरेत् ।। कृतनिर्णजनांश्चैतान्न जुगुप्सेत धर्मवित् । बालघ्नांश्च कृतन्नांश्च विशुद्रानपि धर्मतः । शरणागतहन्तश्च स्त्रीहन्तुंश्च न संवसेत् ॥ अशीतियत्य वर्षाणि बालो वाप्यूनषोड़शः। प्रायश्चित्तार्द्ध मर्हन्ति स्त्रियो रोगिण एव च ॥ अनुक्तनिश्रुतीनाञ्च पापानामपनुत्तये । शक्तिश्चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत् ।। इति वैष्णवे धर्मशास्त्रे चतुःपञ्चाशत्तमोऽध्यायः॥