SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ४६० विष्णुस्मृतिः। समुत्कर्षानृते गुरोश्वालीकनिर्बन्धे तदाक्षेपणे च मांसंपयसा वर्तेत। नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारीब्राह्मणवृत्तिघ्नश्चैते सम्बत्सरं भक्ष्येण वर्तेरन् । परिवित्तिः परिवेत्ता या च परिवेत्ता या च परिविद्यतेदाता याजकश्च चान्द्रायणं कुर्यात् । प्राणिभूपुण्यलोमविक्रयी ताकृच्छू कुर्यात् । आौषधिगन्धपुष्पफलमूलचार्मवेत्रवेदलनुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् । श्लेष्मजतुमधूच्छि शङ्खत्रपुशुक्तिसीसकृष्णलोहोदुम्बरखड्गपात्रविक्रयो चान्द्रायणं कुर्यात् । रक्तवस्त्ररङ्गरत्नगन्धगुड़मधुरसोर्णाविक्रयो त्रिरात्रमुपक्सेत् । मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् । तश्च भूयश्चोपनयेत्। उष्ट्रण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्ताप्राणायामत्रयं कुर्यात्॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः। मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रति ग्रहात् ।। अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनच त्रिभिः कृच्छय॑पोहति ॥ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनापयेत् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy