________________
४८६
चतुःपञ्चाशत्तमोऽध्यायः। यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः । तद्भक्षभुग जपन्नित्य त्रिभिर्वर्षेळपो हति ।। इति वैष्णवे धर्मशास्त्रे त्रिपञ्चाशत्तमोऽध्यायः ।।
॥ अथ चतुःपञ्चाशत्तमोध्यायः ॥ यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् । मृतपञ्चनखात् कूपादत्य तोपहताचोदकं पीत्वाब्राह्मणस्त्रीरात्रमुपवसेत् । द्वयहं राजन्यः । एकाहं वैश्यः । शूद्रो नक्तम् । सर्वे चान्ते व्रतस्य पञ्चगव्यं पिवेयुः ।। पञ्चगव्यं पिवेच्छूद्रो ब्राह्मणस्तु सुरां पिवेत् ।
उभौ तौ नरकं यातो महारौरवसंज्ञितम् ।। पर्वानारोग्यवर्जमृतावगच्छन् पत्नी त्रिरात्रमुपवसेत् । कूटसाक्षी ब्रह्महत्याव्रतञ्चरेत् । अनूदकमूत्रपुरीयकरणे सचैलस्नानं महाव्याहृतिहोमश्च । सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यधशतमावर्त्तयेत् । श्वशृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टःस्रवन्तीमासाद्य षोड़श प्राणायामान कुर्यात् । वेदाग्न्युत्सादी विषवणस्नाय्यवःशायी सम्वत्सरंसद्भक्ष्येण वर्तेत।