________________
४८७
द्विपञ्चाशत्तमोऽध्यायः। फलमूलाशनैर्दिव्यैर्मुन्यन्नानाच भोजनैः। न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ।। मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्मयहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। इति वैष्णवे धर्मशास्त्र एकपञ्चाशत्तमोऽध्यायः॥
॥ अथ द्विपञ्चाशत्तमोऽध्यायः ।। सुवर्णस्तेयकृद्राज्ञ कर्माचक्षाणो मुषलमर्पयेत् । बधाल्यागाद्वा प्रयतो भवति । महाव्रतं द्वादशाब्दानि वा कुर्यात् । निक्षेपापहारी च। धान्यधनापहारी च कृच्छ्रमब्दम् । मनुष्यत्रीकूपक्षेत्रवापीनामपहरणे चान्द्रायणम् । द्रव्याणामल्पसाराणां सान्तपनम् । भक्ष्यभोज्यपान राय्यासनपुपमूलफलानां पञ्चगव्यपानम् । तृणकाष्ठद्र मनुष्कानगुडवत्रचामिणां त्रिरात्रमुपवसेत् । मणिमुक्ताप्रबालताम्ररजताय.कांस्यानां द्वादशाहंकणानश्नीयात्। .. कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत । द्विशफैकशफहरणे त्रिरात्रमुपवसेत्। पक्षिगन्धौषधिरज्जुबैदलानामपहरणे दिनमुपवसेत् ।।