SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ४८६ विष्णुस्मृतिः। गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । मावेदविहितां हिंसामापद्यपि समाचरेत् ॥ या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्वभौ॥ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। स जीवंश्च मृतश्चैव न कचित् सुखमेधते॥ यो बन्धनबधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ यद्धयायति यंत्कुरुते रतिं बध्नाति यत्र च । सदवाप्नोति यत्नेन यो हिनस्ति न किश्चन । नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिबधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ समुत्पत्तिञ्च मांसस्य बधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते । अनुमन्ता बिरासिता निहन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ स्वमांसं परमांसेन यो बर्द्धयितुमिच्छति । अनभ्यर्चच पितृन देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः। मांसानि च न खादेद्यस्तस्य पुण्यफलं समम् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy