________________
४८५
एकपञ्चाशत्तमोऽध्यायः। ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रम् । वैश्योच्छिष्टाशने पञ्चरात्रम् । राजन्योच्छिष्टाशने त्रिरात्राम् । ब्राह्मणेच्छिष्टाशने त्वेकाहम् । राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम् । वैश्योच्छिष्टाशी शिरात्रम्। वैश्यः शूद्रोच्छिष्टाशी च । चाडालानं भुक्ता त्रिरात्रमुपवसेत् । सिद्धं भुक्ता पराकः।
असंस्कृतान पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ।। यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम् । वृथा पशुध्नः प्राप्नोति प्रेत्य चेह च निष्कतिम् ।। यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोहि भूत्यै सर्वस्य तस्माद्यज्ञे बधोऽवधः ।। न तादृशं भवत्येनो मृगं हन्तुर्धनार्थिनः । यादशं भवति प्रेत्य वृथामांसानि खादतः ।। औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थे निधनं प्राप्ताः प्राप्नुवन्त्युत्थितीः पुनः ।। मधुपर्के च यज्ञे च पितृदेवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेति कथञ्चन । यज्ञार्थेषु पशून हिंसन् वेदतत्त्वार्थविद्विजः । आत्मानञ्च पशूश्चैव गमयत्युत्तमां गतिम् ॥