________________
४८४
विष्णुस्मृतिः। कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकावकबलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत् । एकशफोभयदत्ताशने च। . तित्तिरिकापिञ्जललावकवर्तिकामयूरबज सर्वपक्षिमांसाशनेचाहोरात्रम्। कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिवेत् । शुनां मांसाशने च । च्छत्राककरकाशने सान्तपनम् । यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवञ्चवर्जयित्वा पर्युषितं तत्प्राश्योपवसेत् । ब्रश्चनामेध्यप्रभवाँलोहितांश्च वृक्षनिर्यासान् । शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च । गोऽजामहिषीवज सर्वपयांसि च । अनिर्दशाहानि तान्यपि। स्यन्दिनीसन्धिनीविवत्साक्षीरञ्च । अमेध्यभुजश्च। दधिवज केवलानि च शुक्तानि । ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् दिनमेकंचोदके वसेत् । मधुमांसाशने प्राजापत्यम् । विडालकाकनकुलाखूच्छिटभक्षणे ब्रह्मसुवर्चलां पिवेत् । स्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । पञ्चनखविण्मूत्राशने सप्तरात्रम् । आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ।