________________
४८३
एकपञ्चाशत्तमोऽध्यायः। वा षिककदर्य्यदीक्षितबद्वनिगडाभिशस्तषण्डानाञ्च । पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोपोच्छिटभोजिनाञ्च । अवीरास्त्रोसुवर्णकारसपत्नपतितानाञ्च । पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणाञ्च । शैलूषतन्तुवायकृतघ्नरजकानाञ्च । कर्मकारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणाश्च । श्वजीविशौण्डिकतैलिकचैलनिर्गजकानाञ्च । रजस्वलासहोपपतिवेश्मनाञ्च । भ्रूणघ्नावेक्षितमुइक्या संस्पृष्टं पतत्रिणाबलीढंशुना संपृ गवाघ्रातश्च । कामतो यदा संरपृष्टमवक्षुतम् । मत्तक्रुद्धातुराणाञ्च । नाचितं वृथामांसं च । पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जसर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् । सर्वजलजमांसाशनेषु च। आपःसुराभाण्डस्थाः पीत्वा सप्तरात्रंशङ्खपुष्पीशृतम्पयःपिवेत् । मद्यभाण्डवाश्च पञ्चरात्रम् । सोमपः सुरापस्याघ्रायास्यगन्धमुदकमानविरघमर्षणंजप्त्वा घृतप्राशनो भवेत् । खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्य्यात् । प्राश्याज्ञातं सूनास्थं शुष्कमांसञ्च । क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् ।