________________
४८२
विष्णुस्मृतिः। फलदानान्तु वृक्षाणां छेदने जप्यमृकशतम् । गुल्मवल्लीलतानाञ्च पुष्पितानाञ्च वीरुधाम् ।। अन्नजानाञ्च सत्वानां रसजानाञ्च सर्वशः। फलपुपोद्भवानाञ्च घृतप्राशो बिशोधनम् ।। छटजानामोषधीनां जातानाश्च स्वयं वने। वृथालम्भे तु गच्छेद्गां दिनमेकं पयोव्रतम् ।। इति वैष्गवे धर्मशास्त्रे पश्चात्तमोऽध्यायः ।।
॥ अथ-एकपञ्चाशत्तमोऽध्यायः ।। सुरापः सर्वकर्मवर्जितः कणान् वर्षमश्नीयात् । मलाना मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् । ब्शुनपलाण्डुगृजनैतद्गन्धिविडुराहप्राम्यकुक्कुटवानरगोमांसभक्षणे च । सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् । वपनमेखलादण्डभैक्ष्यचर्याब्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि। शशकशल्लकगोधाखड्गकूर्मवजं पञ्चनखमांसाशनेसप्तरात्रमुपवसेत् । गणगणिकास्तेनगायनान्नानि भुक्ता सप्तरात्रं पयसा वर्तेत । तक्षकानं चर्मकर्तुश्च ।