________________
पचाशत्तमोऽध्यायः।
४८१ गजं हत्वा पञ्च नीलान् वृषभान् दद्यात्। तुरगं वासः। एकहायनमनड़ाहं खरबधे । मेषाजबधे च। सुवर्णकृष्णलमुष्ट्रवधे । श्वानं हत्वा त्रिरात्रमुपवसेत्। हत्या मूषकमार्जा'नकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृषरान्नं भोजयित्वा लोहदण्डं दक्षिणां दद्यात्। गोधोलूककाकझषबधे त्रिरात्रमुपवसेत् । हंसबकबलाकमद्गुवानरश्येनभासचक्रवाकानामन्यतमंहत्वा ब्राह्मणाय गां दद्यात् । सर्प हत्वाभ्रींकाष्र्णायसीम् । षण्डं हत्वा पलालभारकम् । वराहं हत्वा घृतकुम्भम् । तित्तिरि तिलद्रोणम् । शुकं विहायनं वत्सम् । क्रौञ्च त्रिहायणम् । क्रव्यादमृगबधे पयस्विनी गां दद्यात्। अक्रयादमृगवधे वत्सतरीम्। अनुक्तमृगवधेत्रिरात्रं पयसा वर्तेत। पक्षिबधे नक्ताशी स्यात् रूल्यमाषकं वा दद्यात् । हत्वा जलचरमुपवसेत् ।
अस्थिमताञ्च सत्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थ्नान्तु शूद्रहत्याव्रतञ्चरेत् ॥ किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे। अनस्थ्नां चैव हिंसायां प्राणायामेण शुद्धयति ॥