________________
उनपश्चाशत्तमोऽध्यायः।
४७६ घृतमेव मधु यवा आपो वा अमृतं यवाः । सर्वे पुनीत मे पापं यन्मे किञ्चन दुष्कृतम् ।। वाचा कृतं कर्मकृतं मनसा च विचिन्तितम् । अलक्ष्मी कालकर्णीच नाशयध्वं यवा ! मम ।। श्वशूकरावलीढञ्च उच्छिष्टोपहतञ्च यत् । मातापित्रोरशुश्रूषां पुनीध्वञ्च यवा ! मम ॥ गणान्नं गणिकान्नञ्च शूद्रानं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीवञ्च यवा ! मम ।। इति वैष्णवे धर्मशास्त्रे अष्ट चत्वारिंशत्तमोऽध्यायः ।।
अथ उनपञ्चाशत्तमोऽध्यायः । मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तंवासुदेवमर्षयेत् । पुष्पवूपानुलेपनदीपनवेदैर्ब्राह्मणतर्पणैश्च । व्रतमेतत् सम्वत्सरं कृत्रा पायेभ्यः पूतो भवति । यावज्जीवं कृत्वा श्वेतद्वीपमवाप्नोति । उभयद्वादशीष्वेकं स्वर्गलोकं प्राप्नोति यावज्जीवं कृत्वाविष्णोर्लोकमाप्नोति । एवमेव पञ्चदशीष्वपि । ब्रह्मभूतममावास्यां पौर्णमास्यान्तथैव च। योगभूतं परिचरन् केशवं महदाप्नुयात् ।।