________________
विष्णुस्मृतिः ।
॥ अथ अष्टचत्वारिंशत्तमोऽध्यायः ॥ अथ कर्म्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे - प्रसृतियावकं श्रपयेत् । न ततोऽग्नौ जुहुयात् । न चात्र वलिकर्म । अमृतं श्रप्यमाणं श्रुतश्वाभिमन्त्रयेत् । श्रप्यमाणे रक्षां कुर्य्यात् ।
ब्रह्म देवानां पदवी कवीनां ऋषिर्विप्राणां श्येनोगृधाणां महिषो मृगाणां स्वधितिर्वनानां सोमःपवित्रमभ्येति रेभन्निति दर्भान् वध्नाति । शृतश्व तमश्नीयात् पात्रे निषिच्य ।
ये देवा मनोजाता मनोजुषः सुदक्षा दक्षपितरः । ते नः पान्तु ते नोऽवन्तु तेभ्योनमस्तेभ्यः स्वाहेत्यात्मनिजुहुयात् । अथाचान्तो नाभिमालभेत । नाताः पीता भवन्तो यूयमापोऽस्माकमुदरे यवाः । ता अम्ममनमी वा अपक्ष्या अनागसा सन्तुदेवीरमृता श्रृता वृद्ध इति । त्रिरात्रं मेधावी । षड्रात्रं पापकृत् ।
सप्तरात्रं पीत्वा महापातकिनामन्यतमः पुनाति । द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति । मासं पीत्वा सर्वपपानि । गोनिहरमुक्तानां यवानामेकविंशतिरात्रश्च ।
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्र मृषिभिः स्मृतम् ॥
४७८