________________
सप्तचत्वारिंशोऽध्यायः। कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतपावनः । नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ।। स्त्रीशूद्रपतितानाञ्च वर्ज येच्चाभिभाषणम् । पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ।। इति वैष्णवे धर्मशास्त्रे षट्चत्वारिंशत्तमोऽध्यायः।।
॥ अथ सप्तचत्वारिंशत्तमोऽध्यायः ।।
अथ चान्द्रायणम् । प्रासानविकारानश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण वर्द्धयेद्धानौह्रासयेदमावास्यां नाश्नीयादेष चान्द्रायणो यवमध्यः । पिपीलिकामध्यो वा। यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः । यस्य पौर्णमासी स यवमध्यः । अष्टौ ग्रासान् प्रतिदिवसं मासमश्नीयात् स यतिचान्द्रायणः । सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः यथा कथञ्चित् षट्कोनां त्रिशती मासेनाश्नीयात् स सामान्यचान्द्रायणः । व्रतमेतत् पुरा भूम कृत्वा सतर्षयो वरम् । प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥ . इति वैष्णवे धमशास्त्रे सातचत्वारिंशत्तमोऽध्यायः ।।