________________
विष्णुस्मृतिः। ।। अथ षट्चत्वारिंशोऽध्यायः ।।
___ अथ कृच्छाणि भवन्ति । ध्यहं नाश्नीयात् प्रत्यहश्च त्रिषवणं स्नानमाचरेत्रिः प्रतिस्नानमप्सु मननं मानस्त्रिरघमर्षणं जपेत् दिवास्थितस्तिष्ठन् रात्रावासोनः कर्मणोऽन्ते पयस्विनीदधादित्यघमणम् । व्यहं सायं त्र्य प्रातस्त्र्यहमयाचितमश्नीयादेषः प्राजापत्यः । व्यहमुष्णाः पिवेदपव्यहमुष्णं घृतं व्यहमुष्णं पयत्यहचनाश्नीयादेष तप्तकृच्छ्रः। एष एव शीतैः शीतकृच्छ्रः । कृच्छ्रातिकृच्छ्रः पयसादिवसैकविंशतिक्षपणम् । उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः । विसाभ्यवहारेण मूलकृच्छ्रः।। विल्वाभ्यवहारेण श्रीफलकृच्छ: पद्माक्षा । निराहारस्य द्वादशाहेनैव पराकः । गोमूत्रगोमयक्षीरदधिसर्पिः कुशोदकान्येकदिवसमश्नीयाद्द्वितीयमुपवसेदेतत्सान्तपनम् । गोमूत्रादिभिः प्रत्यहाभ्यस्तैर्महासातपनम् । यहाभ्यस्तैधातिसस्तन्तपनम् । पिण्याकाचमतकोदकसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुलापुरुषः। कुशपलाशोडुम्बरपद्मशङ्खपुष्पीवटब्रह्मसुवर्चलानां पत्रैःकथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छः।।