SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ पञ्चचत्वारिंशोऽध्यायः। ४७५ कुष्ठ्यतिपातकी। ब्रह्महा यक्ष्मी। सुरापः श्यावदन्तकः। सुवर्णहारः कुनखः। गुरुतल्पगो दुश्चा । पूतिनासः पिशुनः। पूतिवक्त्रः सूचकः। धान्यचौरोऽङ्गहीनः। मिश्रचौरोऽतिरिक्ताङ्गः। अन्नापहारकस्त्वामयावी। वागपहारको मूकः । वस्त्रापहारकः श्वित्री। अश्वापहारकः पङ्गुः। देवब्राह्मणकोशको मूकः। लोलजिह्वो गरदः। उन्मत्तोऽग्निदः। गुरुप्रतिकूलोऽपस्मारी । गोध्नस्त्वन्धः। दीपापहारकश्च । काणश्च दीपनिर्वापकः । त्रपुचामरसीसकविक्रयी रजकः । एकशफविक्रयी मृगव्याधः। कुण्डाशी भगास्यः। घाण्टिकः स्तेनः। वाद्ध षिको भ्रामरी । मिष्ठाश्येकाकीवातगुल्मी। समयभेत्ता खल्वाटः । श्लीपद्यवकीर्णी। परवृत्तिघ्नो दरिद्रः । परपीडाकरो दीर्घरोगी। एवं कर्मविशेषेण जायन्ते लक्षणान्विताः। रोगान्वितास्तथान्धाश्च कुञ्जखञ्जकलोचनाः॥ वामना वधिरा मूका दुर्बलाश्च तथापरे । तस्मात् सर्वः प्रयत्नेन प्रायश्चित्तं समाचरेत् ।। इति वैष्णवे धर्मशास्त्रे पञ्चचत्वारिंशत्तमोऽध्यायः॥ -:०००:
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy