________________
चतुश्चत्वारिंशत्तमोऽध्यायः। भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः । कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ।। एवं पातकिनः पापमनुभूय सुदुःखिताः । तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ।। इति वैष्णवे धर्मशास्त्रे त्रिचत्वारिंशत्तमोऽध्यायः।।
॥ अथ चतुश्चत्वारिंशत्तमोऽध्यायः ।। अथ पापात्मनां नरकेष्वनुभूतदुःखाना तिर्यग्योनयो भवन्ति । अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः । महापात किनाञ्च कृमियोनयः । उपपातकिनां जलजयोनयः । कृतजातिभ्रंशकराणां जलचरयोनयः । कृतसङ्करीकरणकर्मणां मृगयोनयः । कृतापात्रोकरणकर्मणां पशुयोनयः । कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः । प्रकीर्णेषु प्रकीर्णा हिंस्राः क्रयादा भवन्ति । अभोज्यानाभक्ष्याशी कृमिः। स्तेन श्येनः। प्रकृष्टवापहारी विलेशयः। आखुर्धान्यहारी।