SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। यमस्य पुरुषोरैः कृष्यमाणा यतस्ततः । सुकृच्छ्रणानुकारेण नीयमानाश्च ते यथा । श्वभिः शृगालैः क्रव्यादैः काककङ्कवकादिभिः । अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा । अग्निना दह्यमानाश्च नुद्यमानाश्च कण्टकैः । क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया। क्षुधया व्यथमानाश्च घोराघ्रगणैस्तथा । पूयशोणितगन्धेन मूर्च्छमानाः पदे पदे ।। परामपानं लिप्सन्तस्त ड्यमानाश्च किङ्करैः । काककङ्कवकादीनां भीमानां सहशाननैः ।। कचित् काथ्यन्ति तैलेन ताड्यन्ते मुषलैः कचित् । आयसीषु च बिध्यन्ते शिलासु च तथा कचित् ।। कचिद्वान्तमथाश्नन्ति कचित् पूयमसृक् कचित् । कचिद्विष्ठां कचिन्मांसं पूयगन्धि सुदारुणम् ॥ अन्धकारेषु तिष्ठन्ति दारुणेषु तथा कचित् । कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैश्च दारुणैः॥ कचिच्छीतेन बाध्यन्ते क्वचिद्वा मध्यमध्यगाः। परस्परमथाश्नन्ति कचित् प्रेताः सुदारुणाः ॥ कचिद्भूतेन ताड्यन्ते लम्वमानास्तथा कचित् । कचित् क्षिप्यन्ति वाणौवैरुत्कृत्यन्ते तथा कचित् । कण्ठेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः। पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy