________________
४६६
. अष्टात्रिंशोऽध्यायः। अभिचारबलकर्मसु प्रवृत्तिः। आत्मार्थे क्रियारम्भः । अनाहिताग्निता। देवर्षिपितृऋणानामनपाक्रिया। असच्छास्त्राभिगमनम्। नास्तिकता। कुशीलवता । मद्यपस्त्रीनिषेवणम् । इत्युपपातकानि ।। उपपातकिनस्त्वते कुर्यश्चान्द्रायणं नराः । पराकञ्च तथा कुर्युर्यजेयुर्गोमखेन वा ॥.
इति वैष्णवे धर्मशास्त्रे सप्तत्रिंशोऽध्यायः॥
॥ अथ अष्टात्रिंशोऽध्यायः ॥ ब्राह्मणस्य रुजः करणम्। अपेयमद्ययोद्मतिः जैह्मयम् । पशुषु मैथुनाचरणं पुंसि च । इति जातिभ्रंशकराणि । जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । कुर्यात् सान्तपनंकृच्छू प्राजापत्यमनिच्छया ।
इति वैष्णवे धर्मशास्त्रे अष्टात्रिंशोऽध्यायः ।।