SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ४६६ . अष्टात्रिंशोऽध्यायः। अभिचारबलकर्मसु प्रवृत्तिः। आत्मार्थे क्रियारम्भः । अनाहिताग्निता। देवर्षिपितृऋणानामनपाक्रिया। असच्छास्त्राभिगमनम्। नास्तिकता। कुशीलवता । मद्यपस्त्रीनिषेवणम् । इत्युपपातकानि ।। उपपातकिनस्त्वते कुर्यश्चान्द्रायणं नराः । पराकञ्च तथा कुर्युर्यजेयुर्गोमखेन वा ॥. इति वैष्णवे धर्मशास्त्रे सप्तत्रिंशोऽध्यायः॥ ॥ अथ अष्टात्रिंशोऽध्यायः ॥ ब्राह्मणस्य रुजः करणम्। अपेयमद्ययोद्मतिः जैह्मयम् । पशुषु मैथुनाचरणं पुंसि च । इति जातिभ्रंशकराणि । जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । कुर्यात् सान्तपनंकृच्छू प्राजापत्यमनिच्छया । इति वैष्णवे धर्मशास्त्रे अष्टात्रिंशोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy