SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ४६८ विष्णुस्मृतिः। श्रोत्रियत्विगुपाध्यायमित्रपत्न्यभिगमनञ्च । स्वसुः सख्याः स गोत्राया उत्तमवर्णायाः कुमा-- अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजितायानिक्षिप्तायाश्च । अनुपातकिनस्त्वेते महापातकिनो यथा । अश्वमेधेन शुद्धयन्ति तीर्थानुसरणेन वा ।। इति वैष्णवे धर्मशास्त्रे षट्त्रिंशोऽध्यायः ।। ॥ अथ सप्तत्रिंशोऽध्यायः ॥ अनृतवचनमुत्कर्षे । राजगामि च पैशुन्यम् । गुरोश्वालीकनिर्बन्धः। वेदनिन्दा। अधीतस्य च त्यागः। अग्निमातृपितृसुतदाराणाञ्च। अभोज्यानाभक्ष्यभक्षणम् । परस्वापहरणम्। परदाराभिगमनम्। अयाज्ययाजनम् । विकर्मणाजीवनश्च असत्प्रतिग्रहश्च । क्षत्रविद्शूद्रगोबधः । अविक्रेयविक्रयः। परिवित्तितानुजेन ज्येष्ठस्य परिवेदनम् । तस्य च कन्यादानम्। याजनञ्च । ब्रात्यता । भृतकाध्यापनम् । भृताश्चाध्ययनादानम् । सर्वाकरेष्वधिकारः। महायन्त्रप्रवर्त्तनम् । मगुल्मवल्लीलतौषधीनां हिंसा। स्त्रीजीवनम् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy