________________
षत्रिंशोऽध्यायः
४६७ ॥ अथ पञ्चत्रिंशोऽध्यायः ॥ ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमितिमहापातकानि । तत्संयोगश्च । सम्वत्सरेण पतति पतितेन सहाचरन् । एकयानभोजनाशनशयनैः। यौनस्रौवमौखसम्वन्धात् सद्य एव । · अश्वमेधेन शुद्धयुर्महापातकिनस्त्विमे । पृथिव्यां सर्वतीर्थानां तथानुसरणेन वा ।।
इति वैष्णवे धर्मशास्त्रे पञ्चत्रिंशोऽध्यायः ॥
॥ अथ षत्रिंशोऽध्यायः ॥ यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चातर्वत्र्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य चघातनं ब्रह्महत्यासमानीति । कौटसाक्ष्यं सुहृद्बध एतौ सुरापानसमौ। ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलश्वशुरनृपपल्यभिगमनंगुरुदारगमनसमम् । पितृष्वसृमातृष्वसृस्वमृगमनश्च ।