________________
.. विष्णुस्मृतिः। .. ॥ अथ त्रयस्त्रिंशोऽध्यायः ।। अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ! परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिनः। तेनायमाक्रान्तोऽतिपातकमहापासकानुपातकोपपातकेषु प्रवर्तते। जातिभ्रंशकरेषु सङ्करीकरणेष्वपात्रीकरणेषु च।। मलावहेषु प्रकीर्णकेषु च। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामक्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ।। इति वैष्णवे धर्मशास्त्रे त्रयस्त्रिंशोऽध्यायः ।।
॥ अथ चतुस्त्रिंशोऽध्यायः॥ मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । अतिपातकिनस्त्वेते प्रविशेयुद्ध ताशनम् । नयन्या निस्कृतिस्तेषां विद्यते हि कथञ्चन ।
इति वैष्णवे धर्मशास्त्रे चतुस्विंशोध्यायः ।।