SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशोऽध्यायः। · असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा । न च गुरूणां त्वमिति ब्रूयात् । सदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् । न च गुरुणा सह विगृह्य कथां कुर्यात् । नैव चास्य परीवादम्। न चानभिप्रेतम् । गुरुपत्नी तु युवति भिवाघेह पादयोः। पूर्णे विंशतिवर्षे च गुणदोषौ विजानता। कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । अभिवादनकं कुर्य्यादसावहमिति ब्रुवन् । विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुठवीत सतां धर्ममनुस्मरन् । वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी। एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ ब्राह्मणं दशवर्षञ्च शतवर्षश्च भूमिपम् । पिता पुत्रौ विजानीयाबाह्मणस्तु तयोः पिता॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणान्तु वीर्य्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मनः ।। इति वैष्णवे धर्मशास्त्रे द्वात्रिंशोऽध्याय ॥ . ३०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy