SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ४६४ विष्णुस्मृतिः। एत एव वयोवेदा एत एव त्रयः सुराः। एत एव त्रयो लोका एत एवा त्रयोऽग्नयः॥ पितागार्हपत्योऽनिदक्षिणाग्निर्माता गुरुराहवनीयः । सर्वे तस्याहता धा यस्यै ते त्रय आहताः॥ अनाहतास्तु यस्यै ते सर्वास्तस्याफलाः क्रियाः। इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ॥ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते। इति वैष्णवे धर्मशाले एकत्रिंशोऽध्यायः॥ ॥ अथ द्वात्रिंशोऽध्यायः॥ राजविक्नोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसम्वन्धिनश्चाचार्य्यवत् । पल्या एतेषां सवर्णाः। मातृष्वसा पितृष्वसा ज्वेष्ठा स्वसा च । श्वशुरपितृव्यमातुलविजां कनीयसां प्रत्युत्थानमेवाभि वादनम्। हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपसंस्पर्शनम् । गुरुपत्नीना गात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनंन कुर्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy