SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ४६३ एकत्रिंशोऽध्यायः। अनुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् । .. तदादानमस्य ब्रह्मणः स्तेयं नरकाय भवति । लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ।। उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता। ब्रह्मजन्म हि विप्रास्य प्रेत्य चेह च शाश्वतम् ।। कामान्माता पिता चैनं यदुत्पादयतो मिथः। सम्भूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥ आचार्य्यस्तस्य यां जाति बिधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं वै मन्येत् पितरं मातरच तस्मै न द्रुह्येत् कृतमस्य जानन् । इति वैष्णवे धर्मशास्त्रे त्रिंशोऽध्यायः॥ -:: ॥ अथ एकत्रिंशोऽध्यायः॥ त्रयः पुरुषस्यातिगुखो भवन्ति । माता पिता आचार्यश्च । तेषां नित्यमेव शुश्रूषुणा भवितव्यम् । यत्ते ब्रूयुस्तत्कुर्यात् । तेषां प्रियहितमाचरेत् । न तैरननुज्ञातः किश्चिदपि कुर्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy