________________
४५८
विष्णुस्मृतिः।
॥ अथ अष्टाविंशोऽध्यायः॥ अथ ब्रह्मचारिणां गुरुकुले वासः। सन्ध्याद्वयोपासनम् । पूर्वा सन्ध्यां जपेत्तिष्ठन् पश्चिमामासीनः। कालद्वयमभिषेकाग्निकर्मकरणम् । अप्सु दण्डवन्मजनम्। आहूताध्ययनम् । गुरोः प्रियहिताचरणम्। मेखलादण्डाजिनोपवीतधारणम् । गुरुकुलवजं गुणवत्सु भैक्ष्याचरणम् । गुर्वनुज्ञातो भैक्ष्याभ्यवहरणम् । श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्ट
प्राणिहिंसाशील परिवर्जनम् । अधः शय्या। गुरोः पूर्वोत्थानं चरमं संवेशनम् । कृतसन्ध्योपासनच गुभिवादनं कुर्यात् । तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् । दक्षिणं दक्षिणेनेतरमितरेण । स्वञ्च नामास्याभिवादनान्ते भोः शब्दान्तं निवेदयेत् । तिष्ठलासीनः शयानो भुञ्जानः पराङ्मुखश्च
नास्याभिभाषणं कुर्यात् । आसीनस्योपस्थितः कुर्यातिष्ठतोऽभिगच्छन्नागच्छतः
प्रत्युद्रम्य पश्चाद्धावन धावतः। पराङ मुखस्याभिमुखः दूरस्थस्यान्तिकमुपेत्य। शयानस्य प्रणम्य । तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ।