________________
सप्तविंशोऽध्यायः। एता एव क्रियाः स्त्रीणाममन्त्रकाः । तासां समन्त्रको विवाहः। गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनं। गर्भकादशे राज्ञः । गर्भद्वादशे विशः। तेषां मुझज्यावल्वजमय्यो मौज्यः । कार्पासशणाविकान्युपवीतानि वासांसि च। मार्गवैयाघ्रवास्तानि चाणि । पालाशखादिरौडुम्बरा दण्डाः। . केशान्तललाटनासादेशतुल्याः सर्व एव वा। भवदाद्य भवन्मध्यं भवदन्तञ्च भैक्ष्यचरणम् ।
आषोडशाब्राह्मणस्य सावित्री नातिवर्त्तते । आद्वाविंशात् क्षत्रबन्धोराचतुर्विंशतेविंशः॥ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्री पतिता व्रात्या भवन्त्यार्यविगर्हिताः॥ यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यश्च वसनं तत्तदस्य व्रतेष्वपि ॥ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ।।
इति वैष्णवे धर्मशास्त्रे सप्तविंशोऽध्यायः॥