SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशोऽध्यायः। ४५६ नचास्य केवलं नाम ब्रूयात् । गतिचेष्टाभाषितादिकं नास्य कुर्यात् । तत्रास्य निन्दापरीवादी स्यातां न तत्र तिष्ठेत् । नास्कासनो भवेत् । मृते शिलाफलकनौयानेभ्यः । गुरोर्गुरौ सन्निहिते गुरुवद्वत । । अनिर्दिष्टो गुरुणा स्वान् गुरूनाभिवादयेत् । बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत । नास्य पादौ प्रक्षालयेत् नोच्छिष्टमश्नीयात् । एवं वेदं वेदो वेदान् वा स्वीकुर्यात् । ततो वेदाङ्गानि । यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससन्तानः शूद्रत्वमेति । मातुरने विजननं द्वितीयं मौञ्जिबन्धनम् । तत्रास्य माता सावित्री भवति पिता त्वाचार्यः । एतेनैव तेषां द्विजत्वम् । प्राङमौजोबन्धनाद्विजः शूद्रसमो भवति । ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् । वेदस्वीकरणादूध्वं गुर्खनुज्ञातस्तस्मै वरं दत्त्वा लायात् । ततो गुरुकुल एव जन्मनः शेषं नयेत् । तत्राचार्ये प्रेते गुरुवद्गुरुपुत्रे वर्तेत । गुरुदारेषु सवर्णेषु वा। तदभावेऽनिशुश्रूषु३ष्ठिको ब्रह्मचारी स्यात् ।। एवञ्चरति यो विप्रो ब्रह्मचर्यमतन्द्रितः। स गच्छत्युत्तमं स्थानं न चहा जायते पुनः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy