________________
चतुर्विशोऽध्यायः।
४५३ गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा सा रजसि प्रवृद्धा । लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सतञ्च कुर्य्यात् ।।
इति वैष्णवे धर्मशास्त्रे त्रयोविंशोऽध्यायः॥
॥ अथ चतुर्विंशोऽध्यायः॥ अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भाऱ्या भवन्तितिस्रः क्षत्रियस्य । द्वे वैश्यस्य । एका शूद्रस्य । तासां सवर्णावेदने पाणिर्माह्यः । असवर्णावेदने शरः क्षत्रियकन्यया । प्रतोदो वैश्यकन्यया। वसनदशान्तः शूद्रकन्यया । न सगोत्रां न समानार्षप्रवरां भा- विन्देत्मातृतस्त्वा पञ्चमात् पुरुषात् पित्तश्वासप्तमात् । नाकुलीनाम् न च व्याधिताम्। नाधिकाङ्गीम् । न हीनाङ्गीम् । नातिकपिलाम्। न वाचाटाम् । अथाष्टौ विवाहा भवन्ति । ब्राह्मो देव आर्षः प्राजापत्यो गान्धर्व आसुरोराक्षसः पैशाचश्चेति । आहूय गुणवते कन्यादानं ब्राह्मः। यज्ञसमृत्विजे देवः। गोमिथुनग्रहणेनार्षः। प्रार्थिताप्रदानेन प्राजापत्यः। द्वयोः सकामयोर्मातापितरहितो योगो गान्धर्वः ।