________________
४५२
विष्णुस्मृतिः। श्वभिर्हतस्य यन्मांसं शुचि तत् परिकीर्तितम् । क्रव्याद्भिश्च हतस्यान्यैश्चाण्डालाद्यैश्च दस्युभिः॥ ऊई नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् । यान्यधस्तान्यमेव्यानि देहाच्चैव मलाश्च्युताः ॥ मक्षिका विग्रुषश्छाया गौर्गजाश्वमरीचयः। .. रजोभूर्वायुरग्निश्च मार्जारश्च सदा शुचिः॥ नोच्छिष्टं कुर्वते मुख्या विग्रुषोऽङ्गे न यान्ति याः। न श्मशूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ . स्पृशन्ति विन्दवः पादौ य आचामयतः परान् । भौमिकैरते समाज्ञेया न तैरप्रयतो भवेत् ।। उच्छिष्टेन तु संस्कृष्टो द्रव्यहस्तः कथञ्चन । अनिधायैव सहाव्यमाचान्तः शुचितामियात् ॥ माज़ नोपाञ्जनैवेश्म प्रोक्षणेन च पुस्तकम् । समाज नेनाञ्जनेन सेकेनोल्लेखनेन च ॥ .. दाहेन च भुवः शुद्धिर्वासेनाप्यथवा गवाम् । गावः पवित्रं मङ्गल्यं गोषु लोकाः प्रतिष्ठिताः। गावो वितन्वते यज्ञं गावः साधसूदनाः ॥ गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना। षडङ्गमेतत्परमं मङ्गल्यं सर्वदा गवाम् ॥ शृङ्गोदकं गवां पुण्यं सर्वाघविनिसूदनम् । गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम् । गवां प्रासप्रदानेन स्वर्गलोके महीयते ॥ .