________________
त्रयोविंशोऽध्यायः।
४५१ पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितं केशकीटैश्च मृदः क्षेपेण शुद्धयति ॥ यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः। तावन्मृद्वारि देयं स्यात् सर्वासु द्रव्यशुद्धिषु ॥ अजावं मुखतो मेध्यं न गौर्ननरजा मलाः । पन्थानश्च विशुद्धयन्ति सोमसूर्या शुमारुतैः ।। रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः। . मारुतेनैव शुद्धयन्ति पक्वेष्टकचितानि च ॥ प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । अत्यन्तोपहतानाञ्च शौचं नित्यमतन्द्रितः॥ भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् । अव्याप्तञ्चेदमेध्येन तद्वदेव शिलागतम् ।। वह्निप्रज्वालनं कुर्यात् कूपे पक्वेष्टकाचिते। .. पश्चगव्यं न्यसेत् पश्चामवतोयसमुद्भवे ॥ जलाशयेष्वथाल्पेषु स्थावरेषु वसुन्धरे !। कूपवत् कथिता शुद्धिमहत्सु च न दूषणम् ।। त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अष्टमद्भिनिर्णिक्तं यच्च वाचा प्रशस्यते ॥ नित्यं शुद्धः कारुहस्तः पण्यं यश्च प्रसारितम् । ब्राह्मणान्तरितं भोक्ष्यमाकराः सर्व एव च ॥ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने। .. प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥ .