SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशोऽध्यायः। ४४१ सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् । योऽन्ने शुचिहि स शुचिर्न मृद्वारिशुचिः शुचिः।। क्षान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः॥ मृत्तोयैः शुध्यते शोध्यं नदी देगेन शुद्धयति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः॥ अद्भिर्गात्राणि शुद्धयन्ति मनः सत्येन शुद्धयति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धयति ॥ एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः । नानाविधानां द्रव्याणां शुद्धः शृणु विनिर्णयम् ॥ इति वैष्णवे धर्मशास्त्रे द्वाविंशोऽध्यायः ॥ -*: ॥ अथ त्रयोविंशोऽध्यायः॥ शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्त्योपहतम् । अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्त शुद्धयेत् । मणिमयमश्ममयमब्जञ्च सप्तरात्रं महीनिखनेन। . शृङ्गदंष्ट्रास्थिमयं तक्षणेन। दारवं मृण्मयञ्च जह्यात् । अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं विरज्येत तच्छिन्द्यात् । सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः। . अश्ममयानाञ्चमसानां ग्रहाणाश्च । चरुसुक्खुवाणामुष्णेनाम्भसा ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy