________________
४४४
विष्णुस्मृतिः। ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्वानुबज्य विसर्जयेत् । ततः प्रेतपिडं पाद्यपात्रोदकवत् पिण्डत्रये निदध्यात् । कळूत्रयसन्निकर्षेऽप्येवमेव । सपिण्डीकरणं मासिकार्थववादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् । मन्त्रवज हि शूद्राणां द्वादशेऽह्नि । सम्वत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थे दिनमेकञ्च वद्ध येत् ।
सपिण्डीकरणं स्त्रीणां कार्य्यमेवं तथा भवेत् । यावज्जीवं तथा कुर्य्याच्छाद्धन्तु प्रतिवत्सरम् ।। अर्वाक् सपिण्डीकरणं यस्य सम्बत्सरात् कृतम् । तस्याप्यन्नं सोदकुम्भं दद्याद्वषं द्विजन्मने ॥ इति वैष्णवे धर्मशास्त्रे एकविंशोऽध्यायः ॥
॥ अध द्वाविंशोऽध्यायः ॥ ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमशौचम् । द्वादशाहं राजन्यस्य । पञ्चदशाहं वोदयस्य । मासं शूद्रस्य । सपिण्डता च पुरुष सप्तमे विनिवर्तते। अशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते । नाशौचे कस्यचिदन्नमश्नीयान् ।