________________
॥ अथ एकविंशोऽध्यायः॥
४४३ अथाशौचव्यपगमे सुत्रातः सुप्रक्षालितपाणिपाद आचान्तस्त्वेवंविधान् ब्राह्मणान् यथाशक्त्युदङ्मुखान् गन्धमाल्यवस्त्रालङ्कारादिभिः पूचितान् भोजयेत् । एकवन्मन्त्रानूहेतैकोद्दिष्टे । उच्छिष्टसन्निधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् । भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्ताक्दधःखाता वितस्त्यायतास्तिस्रः कर्षः कुर्यात् । कर्पू समीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य्य तत्रैकैकस्मिन्नाहुतित्रयं जुहुयात् । सोमाय पितृमते स्वधा नमः । अग्नये कव्यवाहनाय स्वधा नमः । यमायाङ्गिरसे स्वधा नमः । स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् । अन्नदधिघृतमधुमासः कर्पू त्रयं पूरयित्वैतदिति जपेत् । एवं मृताहे प्रतिमासं कुर्यात् । सम्बसरान्ते प्रेताय तत्पित्र तत्पितामहाय तत्प्रपितामहायच ब्राह्मणान् देवपर्वान् भोजयेत् । अत्रागौकरणमावाहनं पाद्यञ्च कुर्यात् । संसृजतु त्वा पृथिवीसमानीव इति च प्रेतपाद्यपात्रेपितृपाद्यपात्रत्रये योजयेत् । उच्छिष्टसन्निधौ पिण्डचतुष्टयं कुर्यात् ।