________________
४४२
विष्णुस्मृतिः। न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते । आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ।। नाप्राप्तकालो म्रियते बिद्धः शरशतैरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।। नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः । त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ।। आगामिनमनथं हि प्रविधानशतैरपि । न निवारयितुं शक्तस्तत्र का परिदेवना ।। यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्ति(रस्तत्र न मुह्यति ।। गृह्णातीह यथा वस्त्रं त्यक्ता पूर्वधृताम्बरम् । गृह्णात्येवं नवं देहं देही कर्मनिबन्धनम् ।। नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयन्त्यापो न शोषयति मारतः॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ।। अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ।।
इति वैष्णवे धर्मशास्त्र विंशोऽध्यायः॥