________________
विंशोऽध्यायः।
४४१ बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति । अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ।। अर्वाक् सपिण्डीकरणात् प्रेतो भवति यो मृतः। प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ पितृलोकगतश्चान्नं श्राद्ध भुङ्क्ते स्वधामयम् । पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च। मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ।। प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्ध कृते ५ वम् । तस्माच्छ्राद्धं सदा कार्य शोकं त्यक्त्वा निरर्थकम् ।। एतावदेव कर्त्तव्यं सदा प्रेतस्य बन्धुभिः। नोपकुर्यान्नरः शोकात् प्रेतस्यात्मन एव वा॥ दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् । धर्ममेकं सहायार्थ वरयधं सदा नराः ।। मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् । जायावज हि सर्वस्य याम्यः पन्था विरुध्यते॥ धर्मएकोऽनुयात्येनं यत्र कचन गामिनम् । नन्वसारे नृलोकेऽस्मिन् धर्म कुरुत मा चिरम् ।। श्वःकार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम् । न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ।। क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति ।।