________________
४४०
विष्णुस्मृतिः। पौरुषाणामहोरात्राणामतीतानां संख्यैव नास्ति। नच भविष्याणाम् । अनाद्यन्तता कालस्य ।। एवमस्मिन्निरालम्ब काले सततयायिनि । न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्बुवा ।। गङ्गायाः सिकताधारास्तथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ।। चतुर्दश विनश्यन्ति कल्पे कल्प सुरेश्वराः । सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ।। बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च । विनष्टानीह कालेन मनुजेष्वथ का कथा । राजर्षयश्च बहवः सर्वे समुदिता गुणैः । देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ।। ये समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लीयन्ते कालोहि दुरतिक्रमः ।। आक्रग्य सर्वः कालेन परलोकञ्च नीयते । कर्मपाशवशो जन्तुः का तत्र परिदेवना ।। जातस्य हि धु वो मृत्युधुवं जन्म मृतस्य च । अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ।। शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।। सुकृतं दुष्कृतञ्चोभौ सहायौ यस्य गच्छतः । बान्धवैस्तस्य किं कार्य शोचद्भिरथवा न वा ।।