________________
द्वाविंशोऽध्यायः।
४४५ ब्राह्मणादीनामशौचे यः सकृदेवान्नमश्नाति तस्यतावदशौचं यावत्तेषाम् । अशौचापगमे प्रायश्चित्तं कुर्य्यात् । सवर्णस्याशौचे द्विजो भुक्ता स्रवन्तीमासाद्य तन्निमग्नविरघमर्षण जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत्। क्षत्रियाशौचे ब्राह्मणरत्वेतदेवोपोषितः कृत्वाशुद्धथति। वैश्याशौचे राजन्यश्च । . वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च । ब्राह्मणाशौचे राजन्यःक्षत्रियाशौचे वैश्यः सवन्ती मासाद्य गायत्रीशतपञ्चकं जपेत् । ... वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् । शूद्राशौचे द्विजो भुक्ता प्राजापत्यव्रतञ्चरेत् । शूद्रश्च द्विजाशौचे स्नानमाचरेत् । शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिवेत् । पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमशौचम् । मृते स्वामिन्यात्मीयम्। हीनवर्णानामधिकवणेषु तदपगमे शुद्धिः। ब्राह्मणस्य क्षत्रविट्शूद्रेषु षड्रात्रत्रिरात्रौकरात्रौः । क्षत्रियस्य विशूद्रयोः षडात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रषु षड्रायेण । . मासतुल्यैरहोरात्रैर्गर्भस्रावे । जातमृते मृतजाते वा कुलस्य सद्यःशौचम् । अदन्तजाते बाले प्रेते सद्य एव । नास्याग्निसंस्कारो नोदकक्रिया। .