SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४३२ विष्णुस्मृतिः। ॥ अथ पञ्चदशोऽध्यायः ॥ अथ द्वादश पुत्रा भवन्ति । स्वे क्षेत्र संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः । नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः । पुत्रिकापुत्रस्तृतीयः। यस्तस्याः पुत्रः स मे पुत्रोभवेदिति या पित्रा दत्ता सा पुत्रिकापुत्रिकाविधिना प्रतिपादिता पितृभ्रातृविहीना पुत्रिकैव । पौन वश्चतुर्थः अक्षता भूयः संस्कृता पुनर्भूः । भूयस्त्वसंस्कृतापि परपूर्वा । कानीनः पञ्चमः । पितृगृहेऽसंस्कृतयैवोत्पादितः। स च पाणिग्राहस्य गृहे च गूढोत्पन्नः षष्ठः। यस्य तल्पजस्तस्यासौ. सहोढः सप्तमः । गर्भिणी या संस्कृयते तस्याः पुत्रः स च पाणिग्राहस्यदत्तकश्चाष्टमः। स च मातापितृभ्यां यस्य दत्तः क्रीतश्च नवमः । स च येन क्रीतः स्वयमुपगतो दशमः । .. स च यस्योपगतः अपविद्धस्त्वेकादशः। पित्रा मात्रा च परित्यक्तः स च येन गृहीत:यत्र कचनोत्पादितश्च द्वादशः । एतेषां पूर्वः पूर्वः श्रेयान् । स एव दायहारः ।। स चान्यान्विभृयात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy