________________
त्रयोदशोऽध्यायः।
४३१ ॥ अथ त्रयोदशोऽध्यायः ।।
अथ विषम् । विषाण्यदेयानि सर्वानि भृते हिमाचलोद्भवाच्छाङ्गात् । तस्य च यवसप्तकं घृतप्लुतमभिशस्तायदद्यात् । विषं वेगक्रमापेतं सुखेन यदि जीर्यते। विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ।। विषत्वाद्विषमत्वाच्च क्रूर ! त्वं सर्वदेहिनाम् । त्वमेव विष ! जानीर्ष न विदुर्यानि मानुषाः ।। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संसयादस्माद्धर्मतत्रातुमर्हसि ।।
इति वैष्णवे धर्मशास्त्रे त्रयोदशोऽध्यायः ।।
॥ अथ चतुर्दशोऽध्यायः ।।
___ अथ कोशः। प्रान् देवान समभ्यचथ तत्स्नानोदकात् प्रसृतित्रयं पिवेत् । इदं मया न कृतमिति व्याहरन् देवताभिमुखः । यस्य पश्येद्विसप्ताहात्रिसप्ताहादथापि वा । रोगोऽग्निर्जा तिमरणं राजातङ्कमथापि वा । तमशुद्धं विजानीयात्तथा शुद्ध विपर्यये । दिव्ये च शुद्ध पुरुषं सत्कुद्धिार्मिको नृपः ।।
इति वैष्णवे धर्मशास्त्रे चतुर्दशोऽध्यायः ।।