SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ एकादशोऽध्यायः । ४२६ ततस्तत्राग्निवर्ण लोहपिण्डं पञ्च शत्पलिकं संन्यसेत् । तमादाय नातिद्रुतं नाविलम्बितं मण्डलेषु पदन्यासं कुर्वन् ब्रजेत । ततः सप्तम मण्डलमतीत्य भूमौ पिण्डं जह्यात् । यद्यन्यचिह्नितकरस्तमशुद्ध विनिर्दिशेत् । न दग्धः सर्वथा यस्तु स वै शुद्धो भवेन्नरः ।। भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते । पुनस्तं धारयेत् पिण्डं समयस्याविशोधनात् ।। करौ विमृदितत्रीहेस्तस्यादादेव लक्षयेत् । अभिमन्त्र्यास्य करयोर्लाहपिण्डं ततो न्यसेत् ।। त्वमग्ने ! सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेवाग्ने ! विजानोष न विदुर्यानि मानवाः ।। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ।। इनि वैष्णवे धर्मशास्त्रे एकादशोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy