SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। ।। अथ नवमोऽध्यायः ॥ अथ समयक्रिया। राजद्रोहसाहसेषु यथाकामम्। निक्षेपस्तेयेष्यर्थप्रमाणम् । सर्वेष्वेवार्थषु मूल्यं कनकं कल्पयेत् ।। तत्र कृष्णलोने शूद्रं दूळकरं शापयेत् । द्विकृष्णलोने तिलकरम् । त्रिकृष्णलोने रजतकरम् । चतु:कृष्णलोने सुवर्णकरम् । पञ्चकृष्णलोने शीतोद्धृतमहीकरम् । सुवर्णाः कोशो देयः शूद्रस्य । ततः परं यथाह धटाग्न्युदकविशेषाणामन्यतमम् । द्विगुणेऽर्थे यथाभिहिता समयक्रिया वैश्यस्य । त्रिगुणे राजन्यस्य । कोशबज चतुर्गुणे ब्राह्मणस्य । न ब्राह्मणस्य कोशं दद्यात् । अन्यत्रागामिकालसमयनिबन्धनक्रियातः।। कोशस्थाने ब्राह्मणं शीतोद्धृतमहीकरमेव शापयेत् । प्रागहष्टदोषमल्पेयर्थे दिव्यानामन्यतम मेव कारयेत् । सत्सु विदितमञ्चरित्रं न महत्यर्थेऽपि । अभियोक्ता वनयेच्छीपं । अभियुक्तश्च दिव्यं कुर्यात् । राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् । स्त्री ब्राह्मणविकलासमर्थरोगिणां तुला देया ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy