________________
अष्ठमोऽध्यायः।
४२५ गोवीजकाञ्चनैर्वैश्यम् । सर्वमहापातकैस्तु शूद्रम । साक्षिणः श्रावयेत् । ये महापातकिनो लोका ये चोपपातकिनस्ते कूटसाक्षिणामपि । जननमरणान्तरे कृतहानिश्च । सत्येनादित्यस्तपति सत्येन भाति चन्द्रमाः । सत्येन वाति पवनः। सस्येन भूर्धारयति । सत्येनापस्तिठन्ति । सत्येनाग्निस्तिष्ठति। .. खव्च सत्येन। सत्येन देवाः। सत्येन यज्ञाः॥
अश्वमेधसहस्र च सत्यं च तुलया धृतम्।। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ जानन्तोऽपि हि ये साक्ष्ये तुष्टीम्भूता उपासते। ते कूटसाक्षिणां पापस्तुल्या दण्डेन वाप्यथ ।। एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः । यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ॥ अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः । बहुत्वं प्रतिगृह्णीयान साक्षिद्वैधे नराधिपः । समेपु च गुणोत्कृष्टान् गुणिद्वैध द्विजोत्तमान् । यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेन । तत्तत्कार्यं निवर्त्तत कृतं वाप्यकृतं भवेत् ।।
इति वैष्णवे धर्मशास्त्र प्रमोऽध्यायः ।।