________________
विष्णुस्मृतिः।
अथाष्टमोऽध्यायः। अथ साक्षिणः न राजश्रोत्रियप्रवजितकितबतस्करपसधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ताभिशस्तपतितक्षु- तृष्णातव्यसनिरागान्धाः। रिपुमित्रार्थसम्बन्धिविकर्मदृष्टदोषसहायाश्च । ... अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् । एकश्चासाक्षी । स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः। . अथ साक्षिणः कुलजावृत्तवित्तसम्पन्ना. यज्वनस्तपस्विनः पुत्रिणोधर्मज्ञाअधीयानाः सत्यवन्तविद्यवृद्धाश्च । अभिहितगुणसम्पन्नउभयानुमतएकोऽपि । द्वयोविवदमानयोर्यस्य पूर्ववादरतस्य साक्षिणः प्रष्टव्याः । आधयं कार्यवशाद्यत्र पूर्वपक्षस्यभवेत्तत्र प्रतिवादिनोऽपि । उद्दिष्टसाक्षिणि मृते देशान्तरगते वा तदभिहितज्ञातारःप्रमाणम् समक्षदर्शनात् साक्षी श्रवणाद्वा । साक्षिणश्च सत्येन पूयन्ते। वर्णिनां यत्र बधस्तत्रानृतेन । तत्पावनाय कुष्माण्डीभिर्द्विजोऽग्नि जुहुयात् । शूद्र एकालिकं गोदशकस्य प्रासं दद्यात्। स्वभावविकृतौ मुखवर्णविनाशेऽसम्बद्धप्रलापे च कूटसाक्षिणं विद्यात्। साक्षिणश्चाहूयादित्योदये कृतशपथान पृच्छेत् । ब्रूहीति ब्राह्मणं पृच्छेत। सत्यं ब्रूहीति राजन्यम् ।