________________
सप्तमोऽध्यायः। ____४२३ अथ लेख्यं त्रिविधं राजसाक्षिकं ससाक्षिकमसाक्षिक। राजाधिकरणे तनियुक्तकायस्वकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम्। यत्र कचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् । स्वहस्तलिखितमसाक्षिकम् । तद्बलात्कारितमप्रमाणम । उपविकृताश्च सर्व एव। दूषितकर्म दुष्टसाक्ष्यं तत्ससाक्षिकमपि । तादृग्विधनलिखितश्च । स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतश्च । देशाचाराविरुद्ध व्यक्ताधिकृतलक्षणमलुप्रक्रमाक्षरं प्रमाणम् ।
वर्णैश्च तस्कृतश्चिह्नः पत्रैरेव च युक्तिभिः । सन्दिग्धं साधयेल्लेख्यं तथुक्तिप्रतिरूपितः॥ यत्री धनिको वापि साक्षी वा लेखकोऽपि वा। म्रियते यत्र तल्लेख्यं तस्वहस्तैः प्रसाधयेत् ॥
इति वैष्णवे धर्मशास्त्रे सप्तमोऽध्यायः ।।