________________
४१८
विष्णुमतिः। विनष्टपशुमूल्यश्च स्वामिने दद्यात् । अननुज्ञातां दुहन पञ्चविंशतिकार्षापणान् दण्ड्यः । महिषीचे छस्यनाशं कुर्य्यात्तत्सालकस्वष्टौ माषकान् दण्डयः । अपालायाः स्वामी अश्वस्तूष्ट्रोगईभो वा । गौश्चेत्तदर्द्ध तदद्धमजाविकं। . भक्षयित्वोपविष्टेषु द्विगुण । सर्वत्र स्वामिने विनष्टशस्यमूल्यञ्च । पथिप्रामसीमान्ते न दोषः अनावृते च अल्पकानां उत्सृथ्वृषभसूतिकानाञ्च । वस्तूत्तमवर्णान् दास्ये नियोजयेत्तस्योत्तमसाहसदण्डः । त्यक्तप्रबज्यो राज्ञोदास्यं कुर्यात् । भृतकश्चापूर्णकाले भृतिं त्यजन् सकलमेव मूल्यं दद्यात् । राज्ञे च पणशतं दद्यात् तदोषेण यद्विनश्येत्तत् स्वामिने । अन्यत्र देपोवघातात् । स्वामी चेद्धृतकमपूर्णे काले.जह्यात्तस्य सञ्वं मूल्यं दद्यात् । पणशतञ्च राजनि अन्यत्र भृतकदोषात्।। यः कन्यां पूर्वइत्तामन्यस्मै दद्यात् स चौरवच्छास्यः । वरदोषं विना निर्दोषां परित्यजन् पत्रीञ्च अजानन्प्रकाशं यः परद्रव्यं क्रीणीयात्तत्र तस्यादोषः । स्वामी द्रव्यमाप्नुयात् । यथप्रकाशं हीनमूल्यञ्च क्रीणीयाचदा क्रेता विक्रेताच चौरवच्छास्यो।