________________
पञ्चमोऽध्यायः। साधारण्यापलापी च। प्रोषितस्याप्रदाता च। . पितृपुत्राचार्ययाज्यविजामन्योन्यापतितत्यागी च। न च तान् जह्यात् । शूद्रप्रव्रजितानां देवे पित्र्ये भोजकश्च । अयोग्यकर्मकारी च। समुद्रगृहभेदकः । अनियुक्तः शपथकारी पशूनां पुंस्त्वोपघातकारी च । पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः । यस्तयोश्चान्तरः स्यात्तस्योत्तमसाहसम्। तुळामानकूटकर्मकर्तश्च । तदकूट कूटवादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च। ' सम्भूयवणिजां पण्यमनणावरुन्धता। प्रत्येक विक्रीणताञ्च । गृहीतमूल्यं पण्यातु क्रेतुनैव दद्यात्तस्यासौ सोदयं दाप्यः। राज्ञा च पणशतं दण्ड्यः । . क्रीतमक्रीणतो या हानिः सा ऋतुरेख स्यात् । राजविनिषिद्ध विक्रोणतस्तइपहारः। . तारिकः स्थल शुल्कं गृह्णन् दश पणान् दण्ड्यः। ब्रह्मचारिवानप्रसभिक्षुगुम्बिणीतीर्थानुसारिणां नाविक:
शौल्किकः शुल्कमाददानश्च । • तच तेषां दद्याद्। द्यूते कूटाक्षदेविनां करच्छेदः। उपधिदेविना सन्देशच्छेदः। प्रन्थिभेदकानां करच्छेदः । दिवा पशूनां वृकाद्युपघाते पाते त्वनापदि पालदोषः ।