________________
पञ्चमोऽध्यायः। . ४१५ पादेन विंशतिं। काष्ठेन प्रथमसाहसम् । पाषाणेन मध्यमम् । शस्त्रेणोत्तमम् । पादकेशांशुककरलुण्ठने दशपणान् दण्ड्यः । शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् । सह शोणितेन चतुःषष्टिं। करपाददन्तभङ्गे कर्णनासाविकतने मध्यमम् । चेष्टाभोजनवापोधे प्रहारदाने च। नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तमम् । उभयनेत्रभेदिनं राजा यावजीवं बन्धनान्न विमुञ्चत् । तादृशमेव वा कुर्यात् । एकं बहूनां निघ्नता प्रत्येकमुक्ताद्दण्डाद्विगुणः। क्रोशन्तमभिधावतां तत्समीपवर्तिनां संसरताश्च । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः॥ ग्राम्यपशुपीडाकराश्च । गोश्वोष्ट्रगजापहार्येकपादकरः कार्यः अजाव्यपहार्येककरश्च । धान्यापहार्यकादशगुणं दण्ड्यः । शस्यापहारी च ॥ सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन्विकरः तदूनमेकादशगुणं दण्ड्यः । सूत्रकासिगोमयगुडदधिक्षीरतक्रतुणलवणमृद्भस्मपक्षिमतपघृततैलमांसमधुवैदलवेणुसृण्मयलोहदण्डानामपहर्तामूल्यात्रिगुणंदण्ड्यः ।