________________
४१४
विष्णुस्मृतिः। उपपातकयुक्ते मण्यमम् त्रैविधवृद्धाक्षेपे जातिपूगाना। प्रामदेशयोः प्रथमसाहसम् । व्यङ्गतायुक्ताक्षेपे कार्षापणशतम् । . मातृयुक्ते तूतमं सवर्णाक्रोशने द्वादशपणान् दण्ड्यः । हीनवर्णाक्रोशने षड्दण्ड्यः। यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणोदण्डः। तयोर्वाकार्षापणास्त्रयः शुष्कवाक्याभिधाने स्वेवमेव । पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः । . हीनवर्णागमने मध्यमम् गोगमने च । अन्त्यागमने बध्यः पशुगमने कार्षापणशतं दण्ड्यः॥ दोषमनाख्याय कन्यां प्रयच्छंश्च ताश्च विभृयात् । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः। विमांसविक्रयी कार्षापणशवम् ग्राम्यपशुवाती चपशुस्वामिने तन्मूल्यं दद्यात्। आरण्यपशुधाती पञ्चाशतं कार्षापणान् । पक्षिघाती मत्स्यघाती च कार्षापणान् । फलोपगमद्रुमच्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः। पुष्पोपगमदुमच्छेदी मध्यमम् । - वल्लीगुल्मलताच्छेदी कार्षापणशतम् । तृणच्छेधेकं सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥ हस्तेनावगोरयिता दशकापणान् ।